NobleBlocks

Research index

चणकयनत परयजनम

Hegde, Vishwasa

Zenodo (CERN European Organization for Nuclear Research)30 May 2023Open access

NobleIDark:/48914/w1/20260515/DB4B5C2BDOI10.5281/zenodo.7984875

Abstract

चाणक्यनीतिः चाणक्यविरचित सुभाषितसंग्रहः अस्ति । चाणक्यनीतिः क्रि.पू. तृतीया चतुर्थ वा शतमाने लिखितम् स्यात् । अस्मिन् आधुनिककाले अपि उत्तमरीत्या जीवन यापयितुम् चाणक्यनीतिः उपकारी भवति । चाणक्यः मौर्यवंशप्रथमराज्ञः चंद्रगुप्तस्य मन्त्रीसहायक: च आसीत् । सः कौटिल्यः वा विष्णुगुप्तः इति नामभ्याम् अपि प्रसिद्धः आसीत् । सः प्राचीनभारतस्यप्रसिद्धतम: कूटनीतिज्ञोऽभवत् । तस्य साहाय्येन एव चन्द्रगुप्तेन नन्दराज्यम् अवस्थापितम् मौर्यवंशं:स्थापित:च । चाणक्य: अर्थशास्त्रम् इति पुस्तकस्य लेखको आसीत् । राजनीत्यां तस्य नीतिः चाणक्यनीति: इति नाम्ना प्रसिद्धा अस्ति ।चाणक्यस्य पिता चणकः कश्चनब्राह्मणः आसीत् । बाल्ये चाणक्यः सर्वान् वेदान् शास्त्राणि च अपठत्। परं सः नीतिशास्त्रम् एव इच्छति स्म । सः यौवने तक्षशीलायाम् अवसत्। एकदा सः मगधस्य राज्ञा धननन्देन लङ्घितः आसीत् । अतः चाणक्यः धनानन्दम् प्रति प्रतीकारम् ऐच्छत् । विशाखदत्तस्य नाटकम् मुद्रराक्षसं चाणक्यस्य चरितं कथयति ।

Discussion

Topics

More

Suggest a correction or report