Research indexJournal article
शर-अरवनदसय अदवतवदनततततवनशलनम
लक्ष्मीकान्तषडङ्गी
Zenodo (CERN European Organization for Nuclear Research)31 Dec 2023Open access
NobleIDark:/48914/w1/20260522/4761FA71DOI10.5281/zenodo.10643300
शर-अरवनदसय अदवतवदनततततवनशलनम
लक्ष्मीकान्तषडङ्गी · Zenodo (CERN European Organization for Nuclear Research) · 2023
NobleIDark:/48914/w1/20260522/4761FA71DOI10.5281/zenodo.10643300
Free to read at the publisher
You can read the abstract here, or the full text at the publisher.
Abstract
सम्प्रति एकविंशशताब्द्यां यद्यपि नैके भारतीयदार्शनिकाः समालोचकाश्च वेदोपनिषदादीनां प्राचीनशास्त्राणां तत्त्वानुशीलनेन दर्शनग्रन्थादिन् निर्माय तेषां प्रचारे प्रसारे च निमग्नाः, तथापि तेषु दार्शनिकेषु तु श्री-अरविन्दस्य वेदादिषु दार्शनिकग्रन्थेषु योगदानं समनुशीलनं च सततं मौलिकम् अभिनन्दनीयम् अलौकिकञ्चावहति किञ्चित् यतो हि सम्प्रति एवं परिलक्ष्यते यत् अस्मिन् दार्शनिकपरम्परावाहिनीसंसारे नैके ग्रन्थकर्तारः समालोचकाश्च दार्शनिकत्वं प्राप्तुं कामाः गड्डलिकाप्रवाहेण गतानुगतिकं पन्थानम् एकामेव सरणीं वा समनुसरन्ति। अतः तेषां ग्रन्थेषु नाधिकं किमपि मौलिकं विवेचनम् अभिनवसिद्धान्तञ्च परिदृश्यते। गतानुगतिकसमाजस्य एवंविधपरिस्थितिं विहाय श्री-अरविन्दस्तु ऊनविंशशतके वेद-वेदान्तादिषु दार्शनिकग्रन्थेषु स्वाभिमतं मौलिकरीत्या समीचीनयुक्त्या च समुपस्थापने सक्षमः। श्री-अरविन्दः वेदोपनिषत्सु प्राचीनानां दर्शनशास्त्रकाराणां टीकाग्रन्थकाराणाञ्च व्याख्यानादिषु स्थाने स्थाने दोषान् समुल्लिख्य तेषां कारणानि अपि समुल्लिखति, एवञ्च विविधानां दोषाणां समाधानेन सह स्वकीयं नवीनं मतमपि युक्त्या सरलरीत्या च समुपस्थापयति। श्री-अरविन्दस्य अनेन समुद्यमेन दर्शनशास्त्रादिषु नवीनमार्गस्य समुद्धरणेन सह जनगणानामपि अज्ञानान्धकारः दूरीभवति। अतः भारतीयदर्शनजगतं प्रति श्री-अरविन्दस्य स्वाभिनवं वैप्लविकञ्च योगदानमस्तीति अनुभूयते। यथा अरविन्दात् बहु-प्राग्रेव ब्रह्मसूत्रकारः ब्रह्मणः जगतश्च स्वरूपं प्रतिपादयितुमाह – “ब्रह्मसत्यं जगन्मिथ्या” इति। परन्तु श्री-अरविन्दस्तु स्वकीये ग्रन्थे स्वरूपमिदं स्वयुक्त्या खण्डयित्वा उक्तं यत् – “ब्रह्मसत्यं जगदपि ब्रह्म (श्री-अरविन्दोपनिषद् -१-१)” इति। अतः वेदादिषु नैकेषु स्थानेषु श्री-अरविन्दस्य स्वकीयं मौलिकं समनुशीलनं सततं यथार्थरीत्या भारतीयदर्शनजगतं प्रति नवीनदिग्दर्शनेन सह महाकवीनां वाणीं सार्थकयति यत् – “पुराणमित्येव न साधुसर्वं न चापि काव्यं नवमित्यवद्यम्। सन्तः परीक्ष्यान्यतरत् भजते मूढः परप्रत्ययनेय बुद्धिः”॥ (मालविकाग्निमित्रम् -१-२)