Research indexJournal article
मघदतसय ससकतकममस
शर्मा
Zenodo (CERN European Organization for Nuclear Research)30 Dec 2024Open access
NobleIDark:/48914/w1/20260524/EBEDD21EDOI10.5281/zenodo.14689912
मघदतसय ससकतकममस
शर्मा · Zenodo (CERN European Organization for Nuclear Research) · 2024
NobleIDark:/48914/w1/20260524/EBEDD21EDOI10.5281/zenodo.14689912
Free to read at the publisher
You can read the abstract here, or the full text at the publisher.
Abstract
महाकवीनां कौशलमेतद् यत् स नैव गृहीतं वस्तु सामान्यतया वर्णयति, अपितु रसगुणालङ्कारादिभिः मधुरमास्वाद्यं सरसं काव्यरसालं रचयति । एतादृशेषु महाकविषु कालिदासः स्वकवित्वशक्त्या निखिलजगति अद्वितीयं नाम विद्यते । तस्य महाकाव्यद्वयं नाटकत्रयं वा यथा सहृदयाणां चित्तमावर्जयति, तथैव खण्डकाव्यं मेघदूतमपि मनोमुग्धं करोति । लघुकलेवरे काव्येऽस्मिन् भार्याविप्रयुक्तस्य उत्कण्ठितचेतसः यक्षस्य मेघमाध्यमेन स्वप्रियायै सन्देशवचनं वर्णितमस्ति, परञ्चात्र अन्तःप्राणवायुवद् भारतीयसंस्कृतेः सौन्दर्यसम्पत् स्पन्दते । शोधपत्रेऽस्मिन् मेघदूतस्य सांस्कृतिकदृष्ट्या मीमांसैव अभीष्टं वर्तते ।