Research indexJournal article
शकतनरणयकष समरथयमशरतय शबदकसदधनत
Das
Zenodo (CERN European Organization for Nuclear Research)1 Dec 2025Open access
NobleIDark:/48914/w1/20260525/F3EBA6FADOI10.5281/zenodo.18251705
शकतनरणयकष समरथयमशरतय शबदकसदधनत
Das · Zenodo (CERN European Organization for Nuclear Research) · 2025
NobleIDark:/48914/w1/20260525/F3EBA6FADOI10.5281/zenodo.18251705
Free to read at the publisher
You can read the abstract here, or the full text at the publisher.
Abstract
Abstract: अर्थावगत्यर्थः शब्दप्रयोगः क्रियते। केचन एकार्थकाः केचन अनेकार्थकाश्च शब्दाः प्राप्यन्ते। अनेकार्थकशब्दस्थले कदा कोऽर्थ आश्रयणीय इति निर्णयः कथं कर्तुं शक्यत इति शास्त्रकृद्भिः शक्तिनियन्त्रकाः केचन स्वीकृताः येन नानार्थकशब्दानां स्थलविशेषे अर्थविशेषस्यैव नियन्त्रणं कर्तुं शक्यते। संयोगादिनिर्णायकेषु सामर्थ्यमेकं निर्णायकम्। सामर्थ्यरूपं शक्तिनियन्त्रकं समाश्रित्य पाणिनिव्याकरणे परिलक्षितेषु स्थलेषु कानिचन स्थलानीह शोधपत्रे यथामति आलोच्यन्ते। तानि— प्रथमानिर्दिष्टं समास उपसर्जनं, तुल्यास्यप्रयत्नं सवर्णम्, अदर्शनं लोपः, तस्य लोपः, संयोगे गुरुः, अपवर्गे तृतीया, साधकतमं करणं, अधीगर्थदयेशां कर्मणि, यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी, कृत्तद्धितसमासाश्च चेत्यादीनि स्थलानि शास्त्रमनतिक्रम्य यथामति आलोचयामि।