Research indexJournal article
अथरववद वहत यदधकल
बरा, बिप्लब-दासः
International Journal of Sanskrit Research1 Mar 2026Open access
NobleIDark:/48914/w1/20261105/D2580306DOI10.22271/23947519.2026.v12.i2e.3098
अथरववद वहत यदधकल
बरा, बिप्लब-दासः · International Journal of Sanskrit Research · 2026
NobleIDark:/48914/w1/20261105/D2580306DOI10.22271/23947519.2026.v12.i2e.3098
Abstract
अथर्ववेदः चतुर्णां वेदानां मध्ये सामाजिक-राजनीतिक-धार्मिकजीवनस्य यथार्थपरिप्रेक्ष्यं प्रकाशयन् विशिष्टं स्थानं वहति। अन्येषु वेदेषु यत्र यज्ञप्रधानं चिन्तनं दृश्यते, तत्र अथर्ववेदे राष्ट्ररक्षा, राज्यव्यवस्था, शत्रुनिग्रहः, सेनासंरचना तथा युद्धकला इत्यादयः विषयाः व्यापकतया निरूपिताः सन्ति। अथर्ववेदे विहिता युद्धकला केवलं शस्त्रप्रयोगपरकं विज्ञानं न, अपि तु धर्म-नीति-मनोविज्ञान-आध्यात्मिकताभिः समन्वितं समग्रयुद्धदर्शनं प्रस्तौति।अथर्ववेदे युद्धस्य कारणं प्रायः राष्ट्रस्य संरक्षणं, प्रजासुरक्षा, अन्यायनिवारणं तथा शत्रुबलस्य निग्रहः इति प्रतिपाद्यते। युद्धं स्वार्थसाधनाय न, अपि तु धर्मस्थापनाय कर्तव्यरूपेण स्वीक्रियते। अत्र राज्ञः धर्मपरायणता, प्रजाहितचिन्ता तथा सेनायाः अनुशासनं विशेषतया उल्लिखितम्। मन्त्रेषु राजानं राष्ट्रस्य रक्षकं तथा प्रजायाः पिता इव वर्ण्यते, यः युद्धे अपि धर्ममार्गं न परित्यजति।युद्धकला-विषये अथर्ववेदे शस्त्राणां सिद्धिकरणं, आयुधानां प्रभाववर्धनं, कवचधारणं तथा रणभूमेः संरक्षणोपायाः वर्णिताः सन्ति। मन्त्रैः धनुः, बाणः, खड्गः, वज्रः इत्यादीनां शस्त्राणां तेजः अभिवर्ध्यते। एते मन्त्राः सैनिकानां आत्मविश्वासवर्धनाय तथा शत्रुसेनायाः मनोबलक्षयाय प्रयुज्यन्ते।अथर्ववेदे युद्धस्य मनोवैज्ञानिकपक्षः अपि अत्यन्तं महत्त्वपूर्णः अस्ति। मन्त्रैः भयापनयनं, साहसवर्धनं, ऐक्यबोधस्य निर्माणं तथा विजयविश्वासस्य स्थापनं साध्यते। शत्रुसेनायाः भ्रमोत्पादनं, दुर्बलतासृजनं, पराजयभावस्य आरोपणं च अभिचारमन्त्रेषु दृश्यते। अत्र मनसः शक्तेः युद्धे निर्णायकभूमिका स्पष्टतया प्रतिपादिता।युद्धपूर्वकर्माणि, युद्धकालीनविधानानि तथा युद्धोत्तरकर्माणि अपि अथर्ववेदे निरूपितानि सन्ति। युद्धपूर्वे देवतानां आराधना, सेनायाः शुद्धिः, शुभाशुभविवेकः च अनिवार्यः मन्यते। युद्धोत्तरकाले विजयस्य उपरान्त शान्तिस्थापनं, प्रजासंरक्षणं तथा राष्ट्रस्य पुनर्निर्माणं कर्तव्यरूपेण निर्दिष्टम्।अतः अथर्ववेदे विहिता युद्धकला हिंसामात्रे न सीमिता, अपि तु धर्म, नीति, मनोविज्ञानं, आध्यात्मिकता च समन्वयित्वा राष्ट्रहिताय निर्देशितं एकं समग्रयुद्धदर्शनं प्रदर्शयति, यत् प्राचीनभारतीयसैन्यचिन्तनस्य उच्चतमं स्वरूपं प्रतिनिधित्वं करोति।