NobleBlocks

Research indexJournal article

करतरजनय रजनत:

देवी

International Journal of Sanskrit Research1 Mar 2026Open access

NobleIDark:/48914/w1/20261105/6168884FDOI10.22271/23947519.2026.v12.i2f.3115

Abstract

महाकविभारविप्रणीतं किरातार्जुनीयम् संस्कृतमहाकाव्यपरम्परायां एकं विशिष्टं स्थानं धारयति, यत्र वीररसप्रधानकथायाः अन्तर्गतं गूढराजनीतिकतत्त्वानां अपि समुचितं निरूपणं दृश्यते। प्रस्तुतशोधपत्रे अस्य महाकाव्यस्य राजनीतिकपरिमाणानां—राजधर्मस्य, कूटनीतेः, युद्धनीतेः, नैतिकमूल्यानां च—सूक्ष्मविश्लेषणं कृतम्।पाण्डवानां वनवासकालः केवलं दुःखानुभवस्य कालः न, अपि तु भाविसंग्रामस्य सामरिकसज्जतायाः सुवर्णावसरः आसीत् इति अस्मिन् अध्ययनात् सुस्पष्टं भवति। अर्जुनस्य तपः दिव्यास्त्रप्राप्तिश्च कूटनीतिकदृष्ट्या शक्तिसञ्चयस्य साधनरूपेण व्याख्यायते। महाकाव्ये राजधर्मस्य स्वरूपं न्यायप्रियता, आत्मसंयमः, दूरदर्शिता, प्रजाकल्याणनिष्ठा च इत्यादिगुणैः परिपूर्णं निरूपितम्।तथैव कूटनीतेः क्षेत्रे शत्रु-मित्रविवेकः, समयज्ञानम्, रहस्यमन्त्रणायाः महत्त्वं च प्रतिपादितम्। युद्धनीतेः सन्दर्भे साधनसङ्ग्रहः, धैर्यं, योजनाशीलता च विजयस्य अनिवार्यतत्त्वानि इति प्रतिपाद्यन्ते। अस्यां कृतौ नैतिकमूल्यानाम् अपि विशिष्टं स्थानं दृश्यते, यतः धर्मनैतिकतयोः समन्वयेन एव राज्यस्य स्थैर्यं सम्भवति।अन्ततः एषः शोधः दर्शयति यत् किरातार्जुनीयम् केवलं काव्यरूपेण न, अपि तु प्राचीनभारतीयराजनीतिकचिन्तनस्य दर्पणरूपेण अपि अत्यन्तं महत्त्वपूर्णं ग्रन्थम् अस्ति, यस्य शिक्षाः अद्यापि सुशासनाय प्रासंगिकाः सन्ति।

Discussion

More

Suggest a correction or report