Research indexJournal article
रघवशसय परथमसरगसथसमसन परसखयनतमकम अधययनम
.
International Journal of Sanskrit Research1 May 2026Open access
NobleIDark:/48914/w1/20261105/53F7B68CDOI10.22271/23947519.2026.v12.i3d.3204
रघवशसय परथमसरगसथसमसन परसखयनतमकम अधययनम
. · International Journal of Sanskrit Research · 2026
NobleIDark:/48914/w1/20261105/53F7B68CDOI10.22271/23947519.2026.v12.i3d.3204
Abstract
आधुनिके काले प्रायः सर्वेषु क्षेत्रेषु सङ्गणकस्य उपयोगः दृश्यते। सङ्गणकस्य उपयोगः मनुष्याणां कार्यं सुकरम् अकरोत्। अद्यत्वे शिक्षाक्षेत्रेऽपि सङ्गणकस्य व्यवहारः बहुत्र दृश्यते। परन्तु संस्कृतभाषायाम् अस्य उपयोगः न तथा परिलक्ष्यते। वस्तुतः संस्कृतमस्ति सङ्गणकस्य कृते सर्वापेक्षया उपयोगिनी भाषा इति वैज्ञानिकैरपि अङ्गीक्रियते। संस्कृतभाषायाः सङ्गणकीयकरणे आदौ यत् अपेक्षते तद् भवति परिसंख्यानम्। परिसंख्यानम् आश्रित्यैव सङ्गणकम् उत्तरं ददाति। एवञ्च सङ्गणकद्वारा वयं समस्तपदानां विश्लेषणम् इच्छामः चेत् आदौ सङ्गणके तथ्यरूपेण समासस्य किमपि परिसंख्यानं दातव्यम्। इदानीं तथ्यानि कुतः लभ्येरन् इति चेत् किमपि महाकाव्यमाश्रित्य तत्रत्यानां समासानां तथ्यसंग्रहं कृत्वा सङ्गणके दातुं शक्यते। एतदेव विचिन्त्य अस्माभिः रघुवंशमहाकाव्यं स्वीकृत्य तत्रत्यानां समासानां परिसंख्यानं निर्णीयते। अस्मिन् प्रबन्धे केवलं प्रथमसर्गे ये समासाः विद्यन्ते तेषां परिसंख्यानं विधीयते। समासस्य पञ्च भेदाः सन्ति, तेषां पुनः केचन प्रभेदाः सन्ति। रघुवंशे प्रथमसर्गे कः समासः कियता परिमाणेन अस्ति इति अत्र विचार्यते। एवं परिसंख्याने कृते काव्येषु समासानां प्रयोगविषये एका अवधारणा जायते, किञ्च एतदेव तथ्यम् उपयुज्य सङ्गणकद्वारा समासानां विश्लेषणमपि कर्तुं शक्यते।