NobleBlocks

Research indexJournal article

कठपनषददश वदयरथन लकषयम - असयधन परसङगकतवम।

रायः

International Journal of Sanskrit Research1 Jul 2026Open access

NobleIDark:/48914/w1/20261105/F88A3374DOI10.22271/23947519.2026.v12.i4c.3255

Abstract

अद्यतने विश्वे विद्यार्थिनां कर्मजीवन-लक्ष्यनिर्णये नानाविधानां सामाजिक-आर्थिक-चिन्तनधाराणां प्रभावेन कठिनमिति प्रतीयते। वैश्विककरणेन, प्रौद्योगिक-विकासेन, प्रतिस्पर्धात्मकसमाजव्यवस्थया तथा आर्थिकचिन्तया साकं विद्यार्थिनां कर्मजीवन-लक्ष्यनिर्धारणे अत्यन्तः प्रभावः वर्तते। आधुनिककाले बहुभिः विद्यार्थीभिः कर्मजीवनम् आर्थिक-सुरक्षायाः, सामाजिकसम्मानस्य, भोगसुखस्य च साधनरूपेण परिचिन्त्यते। तस्मात् नैतिक-मूल्यानि, आत्मपरिचयः, मानसिक-शान्तिः, मानवीय-कर्तव्यबोधश्च क्रमशः उपेक्ष्यन्ते।अस्मिन् सन्दर्भे भारतीयदर्शनपरम्परायाः परमप्रमुखेषु ग्रन्थेषु कठोपनिषद् इति ग्रन्थः विद्यार्थिभ्यः गम्भीरतमं जीवनदर्शनम् उपदिश्यते। यम-नचिकेतयोः संवादात्मकरूपेण तस्मिन् उपनिषदि ज्ञानस्य स्वरूपम्, आत्मानुसन्धानस्य अनिवार्यता, आत्मसंयमस्य महत्त्वम्, श्रेयः-प्रेययोः विवेचनम्, आदर्श-गुरु-शिष्य-सम्बन्धस्य स्वरूपम्, जीवनस्य परमलक्ष्यं चेति विषयाः सूक्ष्मतया निरूप्यन्ते। नचिकेतः चरित्रम् आधुनिक-विद्यार्थिभ्यः सत्यनिष्ठायाः, आत्मविश्वासस्य, नैतिक-दृढतायाः, यथार्थ-लक्ष्यनिर्धारणस्य च श्रेष्ठम् उदाहरणम् इति प्रदर्श्यते।शोधप्रबन्धेऽस्मिन् आधुनिकयुगे विद्यार्थिनां कर्मजीवन-लक्ष्यनिर्धारणे कठोपनिषदः शिक्षादर्शनस्य प्रासंगिकता विश्लिष्यते। अत्र गुणात्मक-अनुसन्धानपद्धत्याः तथा विषयवस्तु-परिशीलनस्य च अनुसरणं क्रियते। कठोपनिषदः मूलमन्त्राः, आधुनिक-शिक्षाशास्त्रम्, कार्योन्मुखा-शिक्षापद्धतिः, कर्मजीवनमार्गदर्शनं मूल्याधारित-शिक्षासिद्धान्तश्च तुलनात्मकदृष्ट्या विश्लिष्यन्ते।विश्लेषणेन एतत् निश्चीयते यत् आधुनिक-विद्यार्थिनां कर्मजीवन-लक्ष्यं केवलम् अर्थार्जनाय न भवितुमर्हति, अपि तु आत्मविकासेन, सामाजिककर्तव्यपालनेन, मानसिक-सन्तुलनेन, नैतिक-उत्कर्षेण च सम्बद्धं भवितव्यमिति। कठोपनिषद् विद्यार्थिनः तादृशं जीवनदर्शनं प्रति प्रेर्यन्ते, यत्र कर्मजीवनं स्वकीयस्य तथा सामाजिक-कल्याणस्य साधनरूपेण प्रतिष्ठां प्राप्यते।

Discussion

More

Suggest a correction or report