NobleBlocks

Research indexJournal article

ससकतसहतय रसवदलकरसय वशलषणतमकमधययनम

Bari

International Journal of Sanskrit Research1 Sep 2026Open access

NobleIDark:/48914/w1/20261105/AA6AAB9EDOI10.22271/23947519.2026.v12.i5c.3352

Abstract

संस्कृतसाहित्यस्य परम्परातीव समृद्धा तथा च विविधालङ्कारैः, रसैः, ध्वनिभिः, गुणैः, रीतिभिश्च समलङ्कृतास्ति। संस्कृतकाव्यशास्त्रे रसस्य स्थानं सर्वोपरि मन्यते। तथापि काव्यस्य सौन्दर्यवर्धने अलङ्काराणामपि महत्त्वपूर्णं स्थानमस्ति। अलङ्कारा काव्यस्य शोभां वर्धयन्ति, भावानां च चमत्कारपूर्णं प्रकाशनं कुर्वन्ति। तेषु अलङ्कारेषु रसवदलङ्कारो विशेषमहत्त्वपूर्णोऽस्ति। अस्मिन् शोधकार्ये रसवदलङ्कारस्य स्वरूपं, ऐतिहासिकविकासः, प्रयोगवैशिष्ट्यं च विश्लेषणात्मकदृष्ट्या विविच्यते। दण्डी-भामह-उद्भट-विश्वनाथादीनाम् आचार्याणां मतानां तुलनात्मकमध्ययनमपि क्रियते। विशेषतो रसवदलङ्कारस्य रसध्वनेः सह सम्बन्धस्तथा तयोः भेदो विवेच्यते। संस्कृतमहाकाव्येषु, नाटकेषु तथान्येषु काव्यप्रकारेषु रसवदलङ्कारस्य प्रयोग उदाहरणान्यपि परीक्ष्यन्ते। अध्ययनात् ज्ञायते यत् रसवदलङ्कारः काव्यस्य भावगाम्भीर्यं, चमत्कारं, हृदयस्पर्शितां च वर्धयति। अतः संस्कृतकाव्यशास्त्रे रसवदलङ्कारस्य विशिष्टं सौन्दर्यशास्त्रीयं महत्त्वं विद्यते।

Discussion

More

Suggest a correction or report